Shri Hanumat Panchratnam Stotra
ॐ ।। श्री हनुमत्पञ्चरत्नस्तोत्रम् ।। ॐ
वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम् ।
सीतापतिदूताख्यं वातात्मजमद्यभावये हृद्यम् ॥ १ ॥
तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम ।
सञ्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ २ ॥
शंबरवैरिशरातिगमम्बुजदलविपुललोचानोदारम् ।
कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमालम्बे ॥ ३ ॥
दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥
वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम् ।
दीनजनावनदीक्षं पवनतपःपाकपुंजमद्राक्षम् ॥ ५ ॥
एतत् पवनसुतस्य स्तोत्रं
यः पठति पञ्चरत्नाख्यम् ।
चिरमिह निखिलान् भोगान् भुक्त्वा
श्रीरामभक्तिमान् भवति ॥