Narayan Suktam

                                                       ॐ ॥ नारायण सूक्तं ॥ ॐ


ॐ  स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॓ ॥ ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

ॐ ॥ स॒ह॒स्र॒शीर्॑षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वशं॑भुवम् । विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं पदम् । वि॒श्वतः॒ पर॑मान्नि॒त्यं॒ वि॒श्वं ना॑राय॒णग्ं ह॑रिम् । विश्व॑मे॒वेदं पुरु॑ष॒-स्तद्विश्व-मुप॑जीवति । पतिं॒ विश्व॑स्या॒त्मेश्व॑र॒ग्ं॒ शाश्व॑तग्ं शि॒व-मच्युतम् । ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णम् । ना॒राय॒णप॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः । ना॒राय॒णपरं॑ ब्र॒ह्म॒ तत्त्वं ना॑राय॒णः प॑रः । ना॒राय॒णप॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः । यच्च॑ कि॒ंचिज्जगत्स॒र्वं॒ दृ॒श्यते॓ श्रूय॒ते‌உपि॑ वा ॥

अंत॑र्ब॒हिश्च॑ तत्स॒र्वं॒ व्या॒प्य ना॑राय॒णः स्थि॑तः । अनंत॒मव्ययं॑ क॒विग्ं स॑मु॒द्रे‌உंतं॑ वि॒श्वशं॑भुवम् । प॒द्म॒को॒श-प्र॑तीका॒श॒ग्ं॒ हृ॒दयं॑ चाप्य॒धोमु॑खम् । अधो॑ नि॒ष्ट्या वि॑तस्या॒ंते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति । ज्वा॒ल॒मा॒लाकु॑लं भा॒ती॒ वि॒श्वस्याय॑त॒नं म॑हत् । संतत॑ग्ं शि॒लाभि॑स्तु॒ लंब॒त्याकोश॒सन्नि॑भम् । तस्यांते॑ सुषि॒रग्ं सू॒क्ष्मं तस्मिन्॓ स॒र्वं प्रति॑ष्ठितम् । तस्य॒ मध्ये॑ म॒हान॑ग्निर्-वि॒श्वार्चि॑र्-वि॒श्वतो॑मुखः । सो‌உग्र॑भु॒ग्विभ॑जंति॒ष्ठ॒-न्नाहा॑रमज॒रः क॒विः । ति॒र्य॒गू॒र्ध्वम॑धश्शा॒यी॒ र॒श्मय॑स्तस्य॒ संत॑ता । स॒ंता॒पय॑ति स्वं दे॒हमापा॑दतल॒मस्त॑कः । तस्य॒मध्ये॒ वह्नि॑शिखा अ॒णीयो॓र्ध्वा व्य॒वस्थि॑तः । नी॒लतो॑-यद॑मध्य॒स्था॒द्-वि॒ध्युल्ले॑खेव॒ भास्व॑रा । नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा॓स्वत्य॒णूप॑मा । तस्या॓ः शिखा॒या म॑ध्ये प॒रमा॓त्मा व्य॒वस्थि॑तः । स ब्रह्म॒ स शिवः॒ स हरिः॒ सेंद्रः॒ सो‌உक्ष॑रः पर॒मः स्व॒राट् ॥

ऋतग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिंग॑लम् । ऊ॒र्ध्वरे॑तं वि॑रूपा॑क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥

ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि । तन्नो॑ विष्णुः प्रचो॒दया॓त् ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

Vishnu Suktam

                                                    ॐ ॥ विष्णु सूक्तं ॥ ॐ



ॐ  विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे राजाग्ं॑सि॒ यो अस्क॑भाय॒दुत्त॑रग्ं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्णो॑र॒राट॑मसि॒ विष्णो॓ः पृ॒ष्ठम॑सि॒ विष्णोः॒ श्नप्त्रे॓स्थो॒ विष्णो॒स्स्यूर॑सि॒ विष्णो॓र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥


तद॑स्य प्रि॒यम॒भिपाथो॑ अश्याम् । नरो यत्र॑ देव॒यवो॒ मद॑ंति । उ॒रु॒क्र॒मस्य॒ स हि बंधु॑रि॒त्था । विष्णो॓ प॒दे प॑र॒मे मध्व॒ उथ्सः॑ । प्रतद्विष्णु॑स्स्तवते वी॒र्या॑य । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्ष॒यंति॒ भुव॑नानि॒ विश्वा॓ । प॒रो मात्र॑या त॒नुवा॑ वृधान । न ते॑ महि॒त्वमन्व॑श्नुवंति ॥


उ॒भे ते॑ विद्मा॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒त्वम् । प॒र॒मस्य॑ विथ्से । विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् । क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः । ऊ॒रु॒क्षि॒तिग्ं सु॒जनि॑माचकार । त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒ताम् । विच॑क्रमे श॒तर्च॑सं महि॒त्वा । प्रविष्णु॑रस्तु त॒वस॒स्तवी॑यान् । त्वे॒षग्ग् ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥


अतो॑ दे॒वा अ॑वंतु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे । पृ॒थि॒व्याः स॒प्तधाम॑भिः । इ॒दं विष्णु॒र्विच॑क्र॒मे त्रे॒धा निद॑धे प॒दम् । समू॑ढमस्य पाग्ं सु॒रे ॥ त्रीणि॑ प॒दा विच॑क्रमे॒ विष्णु॑र्गो॒पा अदा॓भ्यः । ततो॒ धर्मा॑णि धा॒रयन्॑ । विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॓ व्र॒तानि॑ पस्पृ॒शे । इंद्र॑स्य॒ युज्यः॒ सखा॓ ॥


तद्विष्णो॓ः पर॒मं प॒दग्ं सदा॑ पश्यंति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् । तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाग्ं स॒स्समि॑ंधते । विष्णो॒र्यत्प॑र॒मं प॒दम् । पर्या॓प्त्या॒ अन॑ंतरायाय॒ सर्व॑स्तोमो‌உति रा॒त्र उ॑त्त॒म मह॑र्भवति सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्त्यै॒ सर्व॑मे॒व तेना॓प्नोति॒ सर्वं॑ जयति ॥


ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

Medha Suktam

                                                    ॐ ॥ मेधा सूक्तं ॥ ॐ


ॐ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्यो‌உध्य॒मृता॓थ्सम्ब॒भूव॑ । स मेन्द्रो॑ मे॒धया॓ स्पृणोतु । अ॒मृत॑स्य देव॒धार॑णो भूयासम् । शरी॑रं मे विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा॓भ्यां॒ भूरि॒विश्रु॑वम् । ब्रह्म॑णः को॒शो॑‌உसि मे॒धया पि॑हितः । श्रु॒तं मे॑ गोपाय ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

ॐ मे॒धादे॒वी जु॒षमा॑णा न॒ आगा॓द्वि॒श्वाची॑ भ॒द्रा सु॑मन॒स्य मा॑ना । त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता॓न् बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॓ः । त्वया॒ जुष्ट॑ ऋ॒षिर्भ॑वति देवि॒ त्वया॒ ब्रह्मा॑‌உ‌உग॒तश्री॑रु॒त त्वया॓ । त्वया॒ जुष्ट॑श्चि॒त्रं वि॑न्दते वसु॒ सा नो॑ जुषस्व॒ द्रवि॑णो न मेधे ॥

मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती । मे॒धां मे॑ अ॒श्विना॑वु॒भा-वाध॑त्तां॒ पुष्क॑रस्रजा । अ॒प्स॒रासु॑ च॒ या मे॒धा गं॑ध॒र्वेषु॑ च॒ यन्मनः॑ । दैवीं मे॒धा सर॑स्वती॒ सा मां॓ मे॒धा सु॒रभि॑र्जुषता॒ग्॒ स्वाहा॓ ॥

आमां  मे॒धा सु॒रभि॑र्वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ सा मां मे॒धा सु॒प्रती॑का जुषन्ताम् ॥

मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥

ॐ हं॒स॒ हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि । तन्नो॑ हंसः प्रचो॒दया॓त् ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Manyu Suktam

                                        ॐ ॥ मन्यु सूक्तं ॥ ॐ


यस्ते॓ म॒न्यो‌உवि॑धद् वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् ।
सा॒ह्याम॒ दास॒मार्यं॒ त्वया॓ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ १ ॥

म॒न्युरिन्द्रो॓ म॒न्युरे॒वास॑ दे॒वो म॒न्युर् होता॒ वरु॑णो जा॒तवे॓दाः ।
म॒न्युं विश॑ ईलते॒ मानु॑षी॒र्याः पा॒हि नो॓ मन्यो॒ तप॑सा स॒जोषा॓ः ॥ २ ॥

अ॒भी॓हि मन्यो त॒वस॒स्तवी॓या॒न् तप॑सा यु॒जा वि ज॑हि शत्रू॓न् ।
अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥ ३ ॥

त्वं हि म॓न्यो अ॒भिभू॓त्योजाः स्वय॒म्भूर्भामो॓ अभिमातिषा॒हः ।
वि॒श्वच॑र्-षणिः॒ सहु॑रिः॒ सहा॓वान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥ ४ ॥

अ॒भा॒गः सन्नप॒ परे॓तो अस्मि॒ तव॒ क्रत्वा॓ तवि॒षस्य॑ प्रचेतः ।
तं त्वा॓ मन्यो अक्र॒तुर्जि॑हीला॒हं स्वात॒नूर्ब॑ल॒देया॓य॒ मेहि॑ ॥ ५ ॥

अ॒यं ते॓ अ॒स्म्युप॒ मेह्य॒र्वाङ् प्र॑तीची॒नः स॑हुरे विश्वधायः ।
मन्यो॓ वज्रिन्न॒भि मामा व॑वृत्स्वहना॓व॒ दस्यू॓न् ऋ॒त बो॓ध्या॒पेः ॥ ६  ॥

अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मे‌உधा॓ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ।
जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मुभा उ॑पा॒ शु प्र॑थ॒मा पि॑बाव ॥ ७ ॥

त्वया॓ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः ।
ति॒ग्मेष॑व॒ आयु॑धा स॒ शिशा॓ना अ॒भि प्रयं तु॒ नरो॓ अ॒ग्निरू॓पाः ॥ ८ ॥

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए॓धि ।
ह॒त्वाय॒ शत्रू॒न् वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॓नो॒ विमृधो॓ नुदस्व ॥ ९ ॥

सह॑स्व मन्यो अ॒भिमा॓तिम॒स्मे रु॒जन् मृ॒णन् प्र॑मृ॒णन् प्रेहि॒ शत्रू॓न् ।
उ॒ग्रं ते॒ पाजो॓ न॒न्वा रु॑रुध्रे व॒शी वशं  नयस एकज॒ त्वम् ॥ १० ॥

एको॓ बहू॒नाम॑सि मन्यवीलि॒तो विशं विशं यु॒धये॒ सं शि॑शाधि ।
अकृ॑त्तरु॒क् त्वया॓ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं  विज॒याय॑ कृण्महे ॥ ११ ॥

वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒(ओ)3॑‌உस्माकं मन्यो अधि॒पा भ॑वे॒ह ।
प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मातमुत्सं॒ यत॑ आब॒भूथ॑ ॥ १२ ॥

आभू॓त्या सह॒जा व॑ज्र सायक॒ सहो॓ बिभर्ष्यभिभूत॒ उत्त॑रम् ।
क्रत्वा॓ नो मन्यो स॒हमे॒द्ये॓धि महाध॒नस्य॑ पुरुहूत स॒ंसृजि॑ ॥ १३ ॥

संसृ॑ष्टं॒ धन॑मु॒भयं स॒माकृ॑तम॒स्मभ्यं॓ दत्तां॒ वरु॑णश्च म॒न्युः ।
भियं॒ दधा॓ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॓जितासो॒ अप॒ निल॑यन्ताम् ॥ १४ ॥

धन्व॑ना॒गाधन्व॑ ना॒जिञ्ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॓ जयेम ।
धनुः शत्रो॓रपका॒मं कृ॑णोति॒ धन्व॑ ना॒सर्वा॓ः प्र॒दिशो॓ जयेम ॥

भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑ ॥

ॐ शान्ता॑ पृथिवी शि॑वम॒न्तरिक्षं॒ द्यौर्नो॓ दे॒व्य‌உभ॑यन्नो अस्तु ।
शि॒वा॒ दिशः॑ प्र॒दिश॑ उ॒द्दिशो॓ न॒‌உआपो॓ वि॒श्वतः॒ परि॑पान्तु स॒र्वतः॒ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Durga Suktam

                                                   ॐ ॥ दुर्गा सूक्तं ॥ ॐ


ॐ   ॥ जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ ।
स नः॑ पर्-ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ता‌உत्य॒ग्निः ॥

ताम॒ग्निव॑र्णां तप॑सा ज्वल॒न्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा॓म् ।
दु॒र्गां दे॒वीग्ं शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॑ नमः॑ ॥

अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्थ्-स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॓ ।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोः ॥

विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धु॒न्न ना॒वा दु॑रि॒ता‌உति॑पर्-षि ।
अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो॓‌உस्माकं॑ बोध्यवि॒ता त॒नूना॓म् ॥

पृ॒त॒ना॒ जित॒ग्ं॒ सह॑मानमु॒ग्रम॒ग्निग्ं हु॑वेम पर॒माथ्-स॒धस्था॓त् ।
स नः॑ पर्-ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑ दुरि॒ता‌உत्य॒ग्निः ॥

प्र॒त्नोषि॑ क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च सत्सि॑ ।
स्वाञ्चा॓‌உग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒माय॑जस्व ॥

गोभि॒र्जुष्ट॑मयुजो॒ निषि॑क्तं॒ तवें॓द्र विष्णो॒रनु॒सञ्च॑रेम ।
नाक॑स्य पृ॒ष्ठम॒भि स॒ वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मा॑दयन्ताम् ॥

ॐ का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि । तन्नो॑ दुर्गिः प्रचो॒दया॓त् ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Sri Suktam

                                               ॐ ॥ श्री सूक्तं ॥


ॐ ॥ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी॓म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॓द-प्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा दे॒वीर्जु॑षताम् ॥

कां॒ सो॓स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वलं॑तीं तृ॒प्तां त॒र्पयं॑तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वलं॑तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्ये‌உल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥

आ॒दि॒त्यव॑र्णे तप॒सो‌உधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षो‌உथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सानु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥

उपैतु॒ मां दे॒वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तो‌உस्मि॑ राष्ट्रे॒‌உस्मिन् की॒र्तिमृ॑द्धिं द॒दादु॑ मे ॥

क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्षीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहात् ॥

ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॓म् ।
ई॒श्वरीग्ं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

मन॑सः॒ काम॒माकूतिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्य॑स्य मयि॒ श्रीः श्र॑यतां॒ यशः॑ ॥

क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥

आपः॑ सृ॒जन्तु॑ स्नि॒ग्दा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ सु॒व॒र्णाम् हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥

आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं पि॒ङ्ग॒लाम् प॑द्ममा॒लिनीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह ॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्षीमन॑पगा॒मिनी॓म् ।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्यो‌உश्वा॓न्, वि॒न्देयं॒ पुरु॑षान॒हम् ॥

ॐ म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि । तन्नो॑ लक्ष्मीः प्रचो॒दया॓त् ॥

श्री-र्वर्च॑स्व॒-मायु॑ष्य॒-मारो॓ग्य॒मावी॑धा॒त् पव॑मानं मही॒यते॓ । धा॒न्यं ध॒नं प॒शुं ब॒हुपु॑त्रला॒भं श॒तसं वत्स॒रं दी॒र्घमायुः॑ ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Purush Suktam

                                            ॐ ॥ पुरुष सूक्तं ॥ ॐ 

 

ॐ तच्चं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी॓ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे॓ । शं चतु॑ष्पदे ।

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥

पुरु॑ष ए॒वेदग्ं सर्वम्॓ । यद्भू॒तं यच्च॒ भव्यम्॓ ।
उ॒तामृ॑त॒त्व स्येशा॑नः । य॒दन्ने॑नाति॒रोह॑ति ॥

ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑‍श्च॒ पूरु॑षः ।
पादो॓‌உस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥

त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो॓‌உस्ये॒हा‌உ‌உभ॑वा॒त्पुनः॑ ।
ततो॒ विष्व॒ण्-व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥

तस्मा॓द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत । प॒श्चाद्-भूमि॒मथो॑ पु॒रः ॥

यत्पुरु॑षेण ह॒विषा॓ । दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्॓ । ग्री॒ष्म इ॒ध्मश्श॒रध्ध॒विः ॥

स॒प्तास्या॑सन्-परि॒धयः॑ । त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्-पुरु॑षं प॒शुम् ॥

तं य॒ज्ञं ब॒र्॒हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ॥

तस्मा॓द्य॒ज्ञात्-स॑र्व॒हुतः॑ । सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्-स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्-ग्रा॒म्याश्च॒ ये ॥

तस्मा॓द्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा॓त् । यजु॒स्तस्मा॑दजायत ॥

तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा॓त् । तस्मा॓ज्जा॒ता अ॑जा॒वयः॑ ॥

यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒था व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ॥

ब्रा॒ह्म॒णो॓‌உस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याग्ं शू॒द्रो अ॑जायतः ॥

च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षोः॒ सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ॥

नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॓त् । तथा॑ लो॒काग्म् अक॑ल्पयन् ॥

वेदा॒हमे॑तं पुरु॑षं म॒हान्तम्॓ । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वा‌உभि॒वद॒न्॒, यदा‌உ‌உस्ते॓ ॥

धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्-प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥

अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसा॓च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे॓ ॥

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्॓ । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒ते‌உय॑नाय ॥

प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ।
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्॓ । मरी॑चीनां प॒दमिच्छन्ति वे॒धसः॑ ॥

यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥

रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्रा॓ह्म॒णो वि॒द्यात् । तस्य॒ दे॒वा अस॒न् वशे॓ ॥

ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ॓ । अ॒हो॒रा॒त्रे पा॒र्श्वे ।
नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्तम्॓ ।
इ॒ष्टं म॑निषाण । अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ॥

तच्चं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी॓ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शं नो॑ अस्तु द्वि॒पदे॓ । शं चतु॑ष्पदे ।

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Shri Durga Chalisa

ॐ ॥ श्री दुर्गा चालीसा ॥ ॐ


नमो नमो दुर्गे सुख करनी,
नमो नमो अम्बे दुःख हरनी ।

निरंकार है ज्योति तुम्हारी
तिहूँ लोक फैली उजयारी ।

शशि ललाट मुख महा विशाला,
नेत्र लाल भृकु्टि विकराला ।

रूप मातु को अधिक सुहावे,
दरस करत जन अति सुख पावे ।

तुम संसार शक्ति लय कीना,
पालन हेतु अन्ना धन दीना ।

अन्नपूर्णा हुई जग पाला,
तुम्ही अदि सुंदरी बाला ।

प्रलय काल सब नाशन हारी,
तुम गौरी शिव शंकर प्यारी ।

शिव योगी तुम्हारे गुण गावे,
ब्रह्मा विष्णु तुम्हे नित ध्यावें ।

रूप सरस्वती को तुम धारा,
दे सुबुधि ऋषि मुनिन उबारा ।

धरा रूप नरसिम्हा को अम्बा,
प्रगट भई फाड कर खम्बा ।

रक्षा करी प्रह्लाद बचायो,
हिरनाकुश को स्वर्ग पठायो ।

लक्ष्मी रूप धरो जग माहि,
श्री नारायण अंग समाही ।

क्षीरसिन्धु मे करत विलासा,
दया सिन्धु दीजे मन आसा ।

हिंगलाज में तुम्ही भवानी,
महिमा अमित न जात बखानी ।

मातंगी धूमावती माता,
भुवनेश्वरी बागला सुखदाता ।

श्री भैरव तारा जग तारनी,
छिन्‍न भाल भव दुःख निवारनी ।

केहरी वाहन सोह भवानी,
लंगूर वीर चालत अगवानी ।

कर में खप्पर खडग विराजे,
जाको देख कल दर भाजे ।

सोहे अस्त्र और त्रिशूला,
जाते उठत शत्रु हिय शूला ।

नगरकोट में तुम्ही विराजत,
तिहूँ लोक में डंका बाजत ।

शुम्भु निशुम्भु दनुज तुम मारे,
रक्त -बीज शंखन संहारे ।

महिषासुर नृप अति अभिमानी,
जेहि अघ भर महि अकुलानी ।

रूप कराल कलिका धरा,
सेन सहित तुम तिहि संहारा ।

परी गाढ़ संतन पर जब जब,
भाई सहाय मातु तुम तब तब ।

अमरपुरी अरु बासव लोका,
तवा महिमा सब रहें अशोका ।

ज्वाला में है ज्योति तुम्हारी,
तुम्हें सदा पूजे नर नारी ।

प्रेम भक्ति से जो यश गावे,
दुःख दरिद्र निकट नहीं आवे ।

ध्यावे तुम्हें जो नर मन लाई,
जनम मरण ताको छुटी जाई ।

जोगी सुर मुनि कहत पुकारी,
योग न हो बिन शक्ति तुम्हारी ।

शंकर आचरज तप कीनो,
काम क्रोध जीति सब लीनो ।

निसिदिन ध्यान धरो शंकर को,
काहू काल नहीं सुमिरों तुम को ।

शक्ति रूप को मर्म न पायो,
शक्ति गयी तब मन पछितायो ।

शरणागत हुई कीर्ति बखानी,
जय जय जय जगदम्बा भवानी ।

भई प्रसन्ना आदि जगदम्बा,
दई शक्ति नहीं कीन विलम्बा ।

मोकु मातु कष्ट अति घेरो,
तुम बिन कौन हरे दुःख मेरो ।

आशा तृष्णा निपट सतावें,
मोह मदादिक सब बिन्सावें ।

शत्रु नाश कीजे महारानी,
सुमिरों एकचित तुम्हें भवानी ।

करो कृपा हे मातु दयाला,
रिद्धि सिद्धि दे करहु निहाला ।

जब लगी जियूं दया फल पाऊँ,
तुमरो यश मैं सदा सुनाऊँ ।

दुर्गा चालीसा जो नर गाए,
सब सुख भोग परमपद पावे ।

देविदास शरण निज जनि,
करहु कृपा जगदम्बा भवानी ।