Shri Maha Mrityunjaya Stotra
ॐ ।। महामृत्युञ्जयस्तोत्रम् ।। ॐ
रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १ ॥
कालकण्ठं कालमूर्तिं कलाग्निं कालनाशनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ २ ॥
नीलकन्ठं विरूपाक्षं निर्मलं निरुपद्रवम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ३ ॥
वामदेवं महादेवं लोकनाथं जगद्गुरुम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ४ ॥
देवदेवं जगन्नाथं देवेशं वृषभध्वजम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ५ ॥
त्र्यक्षं चतुर्भुजं शान्तं जटामकुटधारिणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६ ॥
भस्मोद्धूलितसर्वांगं नागाभरणभूषितम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ७ ॥
अनन्तमव्ययं शान्तं अक्षमालाधरं हरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८ ॥
आनन्दं परमं नित्यं कैवल्यपददायिनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ९ ॥
अर्द्धनारीश्वरं देवं पार्वतीप्राणवल्लभम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १० ॥
प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ११ ॥
व्योमकेशं विरूपाक्षं चन्द्रार्द्धकृतशेखरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १२ ॥
गंगाधरं शशिधरं शंकरं शूलपाणिनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १३ ॥
स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारिणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १४ ॥
कल्पायुर्देहि मे नित्यं यावदायुररोगताम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १५ ॥
शिवेशानं महादेवं वामदेवं सदाशिवम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १६ ॥
उत्पत्तिस्थितिसंहारकर्त्तारं ईश्वरं गुरुं ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १७ ॥
मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।
तस्य मृत्युभयं नास्ति नाग्निचोरभयं क्वचित् ॥ १८ ॥
शतावृत्तं प्रकीर्त्तव्यं संकटॆ कष्टनाशनम् ।
शुचिर्भूत्वा पठेत्स्तॊत्रं सर्वसिद्धिप्रदायकम् ॥ १९ ॥
मृत्युञ्जय महादेव त्राहि मां शरणागतम् ।
जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ २० ॥
तावकस्त्वद्गतप्राणः त्वच्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य देवेशं त्र्यंबकाख्यममुं जपेत् ॥ २१ ॥
नमः शिवाय सांबाय हरये परमात्मने ।
प्रणतक्लेशनाशाय योगिनां पतये नमः ॥ २२ ॥